चाटुचणकः(विष्णु:)

विकिसूक्तिः तः
Jump to navigation Jump to search

<poem>

अवतारत्रयं दृष्ट्वा मानवै: कवलीकृतम् । ततस्तु भगवान् साक्षात् नारसिंहं वपुर्दधौ ॥

भगवान् विष्णु: नरसिंहावतारं किमर्थं प्राप्तवान् ? हिरण्यकशिपो: वधार्थम् इति वदेयु: भवन्त: । किन्तु कश्चन चाटुश्लोककार: एतत् वचनं न अङ्गकिरोति । स: वदति - भगवता विष्णुना मत्स्यरूपेण, कूर्मरूपेण, वराहरूपेण च भूमौ अवतार: कृत: । किन्तु तान् आहाररूपेण उपयोक्तुं मानवा: यदा उद्युक्ता: तदा तान् दृष्ट्वा क्रुद्ध: भगवान् उग्रं नरसिंहं रूपं धृतवान् । एवम् अवताररूपस्य जीविन: खादनपरम्परा मानवै: या आरब्धा तां भङ्क्तुं भगवान् नरसिंहरूपेण अवतारं प्राप्तवान् इति । स्यात् खलु एवम् अपि ?


कोऽयं द्वारि हरि: प्रयाह्युपवनं शाखामृगस्यात्र किम् ? कृष्णोऽहं दयिते बिभेमि सुतरां कृष्णादहं वानरात् । राधेऽहं मधुसूदनो व्रज लतां तामेव पुष्पान्विताम् इत्थं निर्वचनीकृतो दयितया ह्रीणो हरि: पातु व: ॥

कदाचित् कुत्रापि गत: विष्णु: गृहम् आगत्य द्वारशब्दं कृतवान् । तदा राधा अन्तर्भागत: अपृच्छत् - ‘क: भवान् ?’ इति । विष्णुना उक्तम् - ‘अहमस्मि हरि:’ इति । हरिशब्दस्य सिंह: इत्यपि अर्थ: । अत: तम् अर्थं मनसि निधाय सा वदति - ‘सिंह: वनं गच्छेत् । तस्य नात्र किमपि कार्यम्’ इति । ‘अहं कृष्ण: अस्मि’ इति पुनर्वदति विष्णु: । कृष्णपदस्य कृष्णमुख: वानर: इत्यर्थं परिकल्प्य राधा अवदत् - ‘कृष्णमुखात् वानरात् भीति: मम । अत: इत: निर्गच्छ’ इति । ‘अहं मधुसूदन: अस्मि’ इति विष्णुना पुन: उक्तम् । मधुशब्दस्य लतार्थं मन्वाना सा ‘तां पुष्पयुतां लतां प्रति एव गच्छ’ इति अवदत् । एवं युक्तियुक्तेन वचनेन पत्न्या य: मूकीकृत: स: हरि: युष्मान् रक्षतु ।


कृष्णेनाम्ब गतेन रन्तुमधुना मृद्भक्षिता स्वेच्छया तथ्यं कृष्ण क एवमाह मुसली मिथ्याम्ब पश्याननम् । व्यादेहीति विदारिते च वदने दृष्ट्वा समस्तं जगत् माता यस्य जगाम विस्मयपदं पायात्स न: केशव: ॥

कदाचित् बलभद्र: मातरम् अवदत् - 'अम्ब ! कृष्णेन मृत्तिका भक्षिता' इति । तदा माता यशोदा कृष्णं पृष्टवती - 'किम् एतत् सत्यम् ? किं त्वया मृत् भक्षिता ?' इति । किमपि अजानन् इव कृष्ण: अपृच्छत् - 'केन एवम् उक्तम् ?' इति । यशोदा अवदत् - 'बलभद्रेण उक्तम्' इति । 'स: असत्यम् उक्तवान्' इति उक्तवान् कृष्ण: । 'रे, मुखम् उद्घाटय, अहं परीक्षे' इति अवदत् यशोदा । कृष्ण: मुखम् उद्घाटितवान् । तदा तत्र यशोदया समस्तं जगत् एव दृष्टम् । तस्मात् सा नितराम् आश्चर्यचकिता जाता । 'यस्य माता एवं विस्मयं प्राप्तवती । स: केशव: अस्मान् सर्वान्, पातु' इति वदति कवि: ।


एका भार्या प्रकृतिमुखरा चञ्चला च द्वितीया पुत्रस्त्वेको व्यसनरसिकः मन्मथो दुर्निवारः । शेषः शय्या वसतिरुदधौ वाहनं पन्नगारिः स्मारं स्मारं स्वगृहचरितं दारुभूतो मुरारिः ॥ विष्णुः काष्ठरूपः सन् पुर्यां तिष्ठति इति सर्वे जानन्ति एव । पुरीनगरे काष्ठमयी विष्णोः मूर्तिः पूज्यते । विष्णुः काष्ठरूपं प्राप्तवान् यत् तस्य कारणम् एवं वदति कश्चन चाटुश्लोककारः –

विष्णोः पत्नीद्वयम् । एका तु मुखरस्वभावा । सर्वदा वदन्ती एव भवति । अपरा चञ्चलचित्ता । तस्याः (लक्ष्म्याः) चञ्चलत्वं सुप्रसिद्धम् । तस्य पुत्रः मम्मथः । सः नियन्त्रणरहितः । शीतलकायः आदिशेषः तदीया शय्या । जलमये समुद्रे वासः । वाहनं तु पक्षी (गरुडः) । एवं नितरां खिन्नः विष्णुः काष्ठरूपं प्राप्तवान् ।

लक्ष्मीवन्तो न जानन्ति प्रायेण परवेदनाम् । शेषे धराभराक्रान्ते शेते नारायणः सुखम् ॥

धनिकाः अन्यस्य कष्टदुःखादिकं न जानन्ति कदाचिदपि इति तु लोकसिद्धः विषयः । भगवान् नारायणः अपि लक्ष्मीवान् ।(यतः तस्य पत्नी लक्ष्मीः) अतः तस्मिन् अपि धनिकव्यवहारः दृश्यते । आदिशेषः तस्य शय्या । भूभारवहनात् नितरां परिश्रान्तः अस्ति शेषः । एवं श्रान्तस्य तस्य उपरि नारायणः सुखेन शेते !!


अङ्गुल्या कः कवाटं प्रहरति कुटिले माधवः किं वसन्तः नो चक्री किं कुलालो न हि धरणिधरः किं द्विजिह्वः फणीन्द्रः । नाहं घोराहिमर्दी किमुत खगपतिः नो हरिः किं कपीन्द्रः इत्येवं सत्यभामाप्रतिवचनजितः पातु वश्चक्रपाणिः ॥

कदाचित् कृष्णः सत्यभामायाः अन्तर्गृहद्वारे शब्दं कृतवान् । तदा सत्यभामा तम् अपृच्छत् –'कः द्वारे शब्दापयति ?' कृष्णः अवदत् – 'अहं माधवः।' माधवः इत्यस्य वसन्तऋतुः इत्यर्थं कल्पयित्वा सत्यभामा अवदत् – 'भवान् वसन्तः वा ?' कृष्णः अवदत् – 'अहं चक्री।’ सुदर्शनचक्रं तस्य अस्ति । अतः सः चक्री । परन्तु कुलालस्य निकटे अपि चक्रं भवति । घटस्य निर्माणे सः चक्रस्य उपयोगं करोति । अतः सत्यभामा 'भवान् कुलालः किम् ?' इति पृच्छति । अहं धरणिधरः इति कृष्णः उक्तवान् । सः भूमिम् उद्धृतवान् आसीत् । परन्तु सत्यभामा भूभारं वहन्तम् आदिशेषं स्मृत्वा 'किं भवान् आदिशेषः ?' इति पृच्छति । तदा तु कृष्णः 'अहं घोरस्य सर्पस्य मर्दनकर्ता' इति अवदत् । कालियमर्दनं तु तेन कृतमेव । परन्तु सत्यभामा अवदत्- 'सर्पनाशकः गरुडः किम् ?' 'नैव भोः, अहं हरिः' इति कृष्णः अवदत् । 'हरिः' इत्यस्य कपिः इत्यर्थं गृहीत्वा सत्यभामा 'किं त्वं कपिः ?' इति अपृच्छत् । एवं सत्यभामया यः जितः सः कृष्णः भवतः सर्वान् रक्षतु ।

"https://sa.wikiquote.org/w/index.php?title=चाटुचणकः(विष्णु:)&oldid=14560" इत्यस्माद् पुनः प्राप्तिः