चाटुचणकः(शिक्षणम्)

विकिसूक्तिः तः
Jump to navigation Jump to search

<poem>

गुरोर्गिरः पञ्चदिनान्यधीत्य वेदान्तशास्त्राणि दिनत्रयं च । अमी समाघ्राय च तर्कशास्त्रं समागताः कुक्कुटामिश्रपादाः ॥

आत्मानं पण्डितं मन्यमानः कश्चन आत्मानं वेषभूषादिभिः अलङ्कृत्य सभां प्रविष्टवान् । तं दूरात् एव दृष्ट्वा कश्चित् अन्यम् अवदत् - ‘‘अहो ! एतस्य पाण्डित्यम् ! एषः गुरोः सकाशात् पञ्च दिनानि यावत् विद्याभ्यासं कृतवान् । दिनत्रयं वेदान्तशास्त्रम् अपि अधीतम् एतेन । तर्कशास्त्रस्य आघ्राणनम् अपि एतेन कृतम् अस्ति । तादृशः ‘महाविद्वान्’ कुक्कुटमिश्रः एषः उपस्थितः’’ इति । अध्ययनकालः एव तदीयं ‘पाण्डित्यं’ किं न ज्ञापयति ?


मातस्त्रयोदशि शुभे कुलरक्षिणी त्वं मत्कान्तसङ्गसुविधायिनि सर्वसिद्धे । भूयास्त्वमेव दश पञ्च च वासराणि मा भूत्कदाचिदपि पापतिथिर्द्वितीया ॥

पारम्परिकाध्ययनक्रमे अनध्ययनानि (विरामदिनानि) त्रयोदशीतः प्रतिपत्पर्यन्तं भवन्ति । (शनिभानुवासरयोः न) कश्चन छात्रः विवाहानन्तरम् अपि पारम्परिकविद्यालये अध्ययनं कुर्वन् अस्ति । सः वदति - 'हे त्रयोदशि ! भवती सर्वसिद्धिकरी अस्ति । भवत्याः आगमनस्य अनन्तरं विरामस्य आरम्भः इत्यतः भवती एव भवेत् समग्रे पक्षे अपि । विरामदिनेषु एव पत्न्याः सङ्गमः सम्भवति । अतः भवती मम प्रिया । किन्तु वराकी द्वितीयातिथिः कदापि न भवेत् । यतः सा शालारम्भकारिणी अस्ति ।'


अगतित्वमतिश्रद्धा ज्ञानाभासेन तृप्तता । त्रयश्शिष्यगुणा ह्येते मूर्खाचार्यस्य भाग्यजाः ॥

केचन शिष्याः अन्या गतिः नास्ति इत्यतः गुरोः समीपम् आगच्छन्ति । पुनः केचन अतिश्रद्धावन्तः भवन्ति । अन्ये केचन ज्ञानाभासं प्राप्यैव तृप्ताः भवन्ति । एते त्रिविधाः शिष्याः मूर्खाचार्यैः सौभाग्यात् एव प्राप्यन्ते ।


अन्दोलनप्रवृत्तीनाम् आलयो यस्तु सर्वदा । विद्यायास्तु लयो यत्र तस्माद् विद्यालयः स्मृतः ॥

यः विद्यायाः आलयः भवति सः 'विद्यालय'शब्देन निर्दिश्यते इति तु लोकव्यवहारः । किन्तु विद्यायाः लयस्य कारणतः अपि तस्य 'विद्यालयः' इति नाम भवितुम् अर्हति इति वदति कश्चन कविः । 'यत्र स्थिताः छात्राः सदा कर्मविरामान्दोलनादिषु व्यापृताः भवन्ति तत्र विद्यायाः लयः एव भवति' इति तस्य आशयः । अद्यतनं छात्राणां व्यवहारं पश्यामः चेत् भासते यत् कविना उक्तम् असत्यं न इति ।


मूलं पठेत् पुनर्व्याख्यां मूलं व्याख्यां पुनः पुनः । पृच्छेन्मध्ये ‘किमु ज्ञातम् ?’ छात्रैरामिति कथ्यते ॥

अजानता अपि शिक्षकेण कथं पाठः करणीयः इति अत्र वर्णितम् अस्ति । सः प्रथमं मूलं पठेत् । तदनु तत्रत्यां व्याख्यां पठेत् । पुनरपि मूलं पठेत्, व्याख्यामपि पुनः पठेत् । एवं मूलं व्याख्यां च पुनः पुनः पठन् सः मध्ये मध्ये 'ज्ञातं किम्?' इति छात्रान् पृच्छेत् । तदा तु छात्राः 'आम्' इति वदन्ति एव ।


वाच्यतां समयोऽतीतः स्पष्टमग्रे भविष्यति । इति पाठयतां ग्रन्थे काठिन्यं कुत्र विद्यते ॥

यदि शिष्यः पाठ्यभानविषये कठिनं प्रश्नं पृच्छति तर्हि उत्तरकथनं निवारयितुं त्रयः मार्गाः । 'रे पठपठ' इति तर्जनं प्रथमः प्रकारः । 'इदानीं समयः नास्ति । श्वः वदिष्यामि' इति कथनं द्वितीयः मार्गः । 'एषः विषयः भवता इदानीं न बुध्यते । कालान्तरे भवान् ज्ञास्यति' इति कथनं तृतीयः प्रकारः । एतान् प्रकारान् अवलम्ब्य ये पाठयन्ति ते कस्यापि ग्रन्थस्य पाठने काटिन्यं न अनुभवन्ति ।


वाच्यतां समयोऽतीतः स्पष्टमग्रे भविष्यति । इति पाठयतां ग्रन्थे काठिन्यं कुत्र विद्यते ॥

यदि शिष्यः पाठ्यभागविषये कठिनं प्रश्नं पृच्छति तर्हि उत्तरकथनं निवारयितुं त्रयः मार्गाः । 'रे पठ पठ' इति तर्जनं प्रथमः प्रकारः । 'इदानीं समयः नास्ति । श्वः वदिष्यामि' इति कथनं द्वितीयः मार्गः । 'एषः विषयः भवता इदानीं न बुध्यते । कालान्तरे भवान् ज्ञास्यति' इति कथनं तृतीयः प्रकारः । एतान् प्रकारान् अवलम्ब्य ये पाठयन्ति ते कस्यापि ग्रन्थस्य पाठने काठिन्यं न अनुभवन्ति ।


न ब्रह्यचारी न गृही न वनस्थो न वा यतिः । पञ्चमः पञ्चभद्राख्यः छात्राणामयमाश्रमः ॥

छात्रावासेषु वसन्तः सर्वे अध्ययनैकासक्ताः भवन्ति इति न । भोजनादिव्यवस्था भवति तत्र इत्यतः सुखजीवनाय अपि वसन्ति केचन । तान् दृष्ट्वा केनचित् रचितः श्लोकः एषः । 'लोके चत्वारः आश्रमाः प्रसिद्धाः - ब्रह्मचर्यं, गार्हस्थ्यं वानप्रस्थं, संन्यासः चेति । छात्रावासवासिनः एतेभ्यः आश्रमेभ्यः बहिर्भूताः, एतेभ्यो अन्येन पञ्चमेन प्रकारेण जीवन्ति । पञ्चेन्द्रियाणां तृप्त्यै येन केनचित् प्रकारेण प्रयतन्ते इत्यतः ते 'पञ्चभद्राः' इति निर्दिश्यन्ते । तादृशानां छात्राणाम् आवासः एषः' इति सः श्लोककारः वदति छात्रावासं दृष्ट्वा ।

सञ्चिका:Shikshanam.jpg
शिक्षणम्
"https://sa.wikiquote.org/w/index.php?title=चाटुचणकः(शिक्षणम्)&oldid=14555" इत्यस्माद् पुनः प्राप्तिः