चाणक्यनीतिदर्पणः (पञ्चदशोऽध्यायः)

विकिसूक्तिः तः
नेविगेशन पर जाएँ खोज पर जाएँ

<Poem>

यस्य चित्तं द्रवीभूतं कृपया सर्वजन्तुषु । तस्य ज्ञानेन मोक्षेण किं जटाभस्मलेपनैः ॥१॥

एकमप्यक्षरं यस्तु गुरुः शिष्यं प्रबोधयेत। पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा सोऽनृणी भवेत॥२॥

खलानां कण्टकानां च द्विविधैव प्रतिक्रिया । उपानन्मुखभङ्गो वा दूरतो वा विसर्जनम् ॥३॥

कुचैलिनं दन्तमलोपधारिणं बह्वाशिनं निष्ठुरभाषिणं च । सूर्योदये चास्तमिते शयानं विमुञ्चति श्रीर्यदि चक्रपाणिः ॥४॥

त्यजन्ति मित्राणि धनैर्विहीनं पुत्राश्च दाराश्च सुहृज्जनाश्च । तमर्थवन्तं पुनराश्रयन्ति अर्थो हि लोके मनुषस्य बन्धुः ॥५॥

अन्यायोपार्जितं द्रव्यं दश वर्षाणि तिष्ठति । प्राप्ते चैकादशे वर्षे समूलं तद्विनश्यति ॥६॥

अयुक्तं स्वामिनो युक्तं युक्तं नीचस्य दूषणम् । अमृतं राहवे मृत्युर्विषं शङ्करभूषणम् ॥७॥

तद्भोजनं यद्द्विजभुक्तशेषं तत्सौहृदं यत्क्रियते परस्मिन। सा प्राज्ञता या न करोति पापं दम्भं विना यः क्रियते स धर्मः ॥८॥

मणिर्लुण्ठति पादाग्रे काचः शिरसि धार्यते । क्रयविक्रयवेलायां काचः काचो मणिर्मणिः ॥९॥

अनन्तशास्त्रं बहुलाश्च विद्याः स्वल्पश्च कालो बहुविघ्नता च । यत्सारभूतं तदुपासनीयं हंसो यथा क्षीरमिवाम्बुमध्यात॥१०॥

दूरागतं पथि श्रान्तं वृथा च गृहमागतम् । अनर्चयित्वा यो भुङ्क्ते स वै चाण्डाल उच्यते ॥११॥

पठन्ति चतुरो वेदान्धर्मशास्त्राण्यनेकशः । आत्मानं नैव जानन्ति दर्वी पाकरसं यथा ॥१२॥

धन्या द्विजमयी नौका विपरीता भवार्णवे । तरन्त्यधोगताः सर्वे उपरिष्ठाः पतन्त्यधः ॥१३॥

अयममृतनिधानं नायकोऽप्योषधीनां अमृतमयशरीरः कान्तियुक्तोऽपि चन्द्रः । भवति विगतरश्मिर्मण्डलं प्राप्य भानोः परसदननिविष्टः को लघुत्वं न याति ॥१४॥

अलिरयं नलिनीदलमध्यगः कमलिनीमकरन्दमदालसः । विधिवशात्परदेशमुपागतः कुटजपुष्परसं बहु मन्यते ॥१५॥

पीतः क्रुद्धेन तातश्चरणतलहतो वल्लभो येन रोषाद् आबाल्याद्विप्रवर्यैः स्ववदनविवरे धार्यते वैरिणी मे । गेहं मे छेदयन्ति पर्तिदिवसमुमाकान्तपूजानिमित्तं तस्मात्खिन्ना सदाहं द्विजकुलनिलयं नाथ युक्तं त्यजामि ॥१६॥

बन्धनानि खलु सन्ति बहूनि प्रेमरज्जुकृतबन्धनमन्यत। दारुभेदनिपुणोऽपि षडङ्घ्रिर् निष्क्रियो भवति पङ्कजकोशे ॥१७॥

छिन्नोपि चंदनतरुर्न जहाति गंधं वृद्धोपि वापणपतिर्न जहाति लाभं । यंत्रार्पितो मधुरतां न जहाति चेक्षुः क्षीणोपि न त्यजति शीलगुणान् कुलीनः ॥ ॥१८॥

उर्व्यां कोऽपि महीधरो लघुतरो दोर्भ्यां धृतो लीलया तेन त्वं दिवि भूतले च सततं गोवर्धनो गीयसे । त्वां त्रैलोक्यधरं वहामि कुचयोर्गरेण तद्गण्यते किं वा केशव भाषणेन बहुना पुण्यैर्यशो लभ्यते ॥१९॥

इति चाणक्यनीतिदर्पणे पञ्चदशोऽध्यायः