चातकजीमूतन्यायः

विकिसूक्तिः तः

जीमूतो नाम मेघः । चातकपक्षी सर्वथा सर्वदा मेघात् निःसृतं जलमेव पिबति अन्यत्र जलाशये विद्यमानं जलं नेच्छति । अयमस्य स्वभावः । एवं कस्यचित् विशिष्टस्वभावस्य वर्णनार्थम् अस्य न्यायस्य प्रयोगो भवति ।

"https://sa.wikiquote.org/w/index.php?title=चातकजीमूतन्यायः&oldid=9908" इत्यस्माद् प्रतिप्राप्तम्