छिन्नोऽपि रोहति तरुश्चन्द्रः...

विकिसूक्तिः तः

सुभाषितम्

छिन्नोऽपि रोहति तरुश्चन्द्रः क्षीणोऽपि वर्धते लोके ।
इति विमृशन्तः सन्तः सन्तप्यन्ते न लोकेऽस्मिन् ॥




तात्पर्यम्

छिन्नं चेदपि सस्यं वर्धते । चन्द्रः क्षीणः भवति चेदपि पुनः वर्धते । सः पुनः आकाशे विराजते । एवं चिन्तयन्तः सज्जनाः अस्मिन् लोके व्यर्थतया दुःखं न अनुभवन्ति ।