जलमौक्तिकन्यायः

विकिसूक्तिः तः

स्वातिनक्षत्रे शक्तिकायां जलबिन्दुः पतितश्चेत् मौक्तिकं भवतीति प्रवादः । अर्थात् साधारणोऽपि जलबिन्दुः विशिष्टदेशकालादिबलेन मौक्तिकं भवति । तथा मनुष्योऽपि विशिष्टदेशकाल श्रद्धादिकारणेन महीयान् भवतीति अस्य अभिप्रायः । द्र्ष्टव्यम् – महाभारत अनुशासन पर्वणि १२-९ नीलकण्ठी संतप्तायसि संस्थितस्य पयसो नामापि न श्रूयते स्वात्यां सागर शुक्तिसंपुटगतं तज्जायते मौक्तिकम् ॥ (भर्तृहरिनी. श.३)

"https://sa.wikiquote.org/w/index.php?title=जलमौक्तिकन्यायः&oldid=10071" इत्यस्माद् प्रतिप्राप्तम्