जहदजहत्स्वार्थवश्त्तिन्यायः

विकिसूक्तिः तः
Jump to navigation Jump to search

यत्र शब्दार्थस्य कश्चन अंशः स्वीकृतः कश्चन अंशश्च परित्यक्तः तत्र जहदजहत्स्वार्थवृत्तिः शब्दस्येति शास्त्ररीतिः । सोऽयं देवदत्त इति लौकिकवाक्ये तत्त्वमसि इति च वेदान्तवाक्ये इयमेव वश्त्तिराश्रीयते वेदान्तशास्त्रे । सः इति शब्दस्य तत्कालविशिष्टः इति, अयं इति शब्दस्य एतत्कालविशिष्टः इति च अर्थः । एकस्मिन् देवदत्ते तयोः द्वयोरपि विशेषणयोः अन्वयो न भवतीति कारणेन तयोः विरुद्धयोः अंशयोः परित्यागेन एकस्मिन् देवदत्तपिण्डे तात्पर्यं स्वीक्रियते जहदजहत्स्वार्थवश्त्त्या । तत्त्वमसि इति औपनिषदवाक्येऽपि तत् इत्यस्य शब्दस्य परोक्षत्वविशिष्टं चैतन्यम् इत्यर्थः , त्वम् इत्यस्य च अपरोक्षत्वादिविशिष्टं चैतन्यम् इत्यर्थः । उभयत्रापि परोक्षत्वापरोक्षत्वादिविरुद्धांशस्य परित्यागेन अविरुद्धे एकस्मिन् चैतन्ये एव तात्पर्यम् जहदजहत्स्वार्थवृत्त्या । इयमेव भागलक्षणेत्यपि प्रसिद्धा । एतद्विषयकं स्पष्टीकरणं श्रीनिवास अर्जुनवाडाकरकृतग्रन्थे काव्य-प्रकाशव्याख्याने विस्तरशः उपनिबद्धम् ।