जाग्रत् स्वप्न सुषुप्त्यादि...

विकिसूक्तिः तः

जाग्रत् स्वप्न सुषुप्त्यादि प्रपञ्चं यत् प्रकाशते
तद् ब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते ॥ - कैवल्योपनिषत् १-१७

जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चं सर्वं यत् प्रकाशते ‘तद् ब्रह्मैव अहम्’ इति ज्ञात्वा
सकलबन्धनेभ्यः सम्पूर्णतया मुच्यते ॥

वेदान्तेषु ‘ब्रह्म’ शब्दः पौनः पुन्येन प्रयुज्यते । ‘ब्रह्म’ शब्दस्य वेदः, तपः, सृष्टिकर्ता,
ब्राह्मणः – इति च अर्थाः भवन्ति । औपनिषदं ब्रह्म तु नान्यतमम् । ‘ब्रह्मज्ञानेन मुक्तिः’
इत्यत्र ‘ब्रह्म’ शब्दस्य अर्थः एतेभ्यः अन्य एव ॥

तर्हि वेदान्तेषु ‘ब्रह्म’ पदार्थः कः ? इति संशये अयं मन्त्रः परिहरति । अवस्थात्रयसाक्षिभूतः,
अवस्थात्रयविलक्षणः, अवस्थात्रयास्पदभूतः, निर्विकारी, असंसारी आत्मैव औपनिषदं परब्रह्म ।
इदं परब्रह्म न स्वस्मात् भिन्नभूतम् अनात्मवस्तु । इदं ब्रह्म इन्द्रचन्द्रादिदेवतासु अन्यतमा
परिच्छिन्ना देवता न भवति । किं तु परिपूर्णं निरूपाधिकं तत्त्वमेतत् । ‘इदं ब्रह्मैव अहम्’ इति
विजानतः संसारबन्धनम् भवेद्वा ? भयं भवेद्वा ? दुःखं भवेद्वा ? नैव ॥