जातिद्वेषो धर्मनाशो...
दिखावट
सुभाषितम्
जातिद्वेषो धर्मनाशो देशद्रोहः स्वविस्मृतिः ।
यत्र प्रवर्धते तत्र सङ्घधर्मो हि तारकः ॥
तात्पर्यम्
जातिद्वेषः, धर्मनाशः, देशद्रोहः, आत्मविस्मरणम् - एते यत्र वर्धन्ते तत्र तारकमन्त्रः परिहारमार्गः नाम सङ्घधर्मः एव ।