जामात्रर्थन्यायः

विकिसूक्तिः तः

१. जामातुः कृते सिद्धः स्वयंपाकः अकस्मात् आगतेभ्यः अतिथिभ्यः परिवेषितः । एवं एकस्य कृते सिद्धं, यदि अन्यस्य कृते उपकारकं भवति चेत् अस्य न्यायस्य प्रवश्त्तिः भवति । २. सांख्यदर्शनस्य प्रधानपुरुषवादस्य निराकरणार्थं ब्रह्मसूत्रेषु काश्चन युक्तयः दर्शिताः । एताभिरेव योगदर्शनस्यापि निराकरणं ज्ञातव्यमिति ‘एतेन योगः प्रत्युक्तः’ इति नामके अधिकरणे स्पष्टीकृतम् । अस्मिन् प्रसंगे अस्य न्यायस्य प्रवृत्तिः भवति ।

"https://sa.wikiquote.org/w/index.php?title=जामात्रर्थन्यायः&oldid=10082" इत्यस्माद् प्रतिप्राप्तम्