जारत्कारवः आर्तभागः पप्रच्छ...

विकिसूक्तिः तः

जारत्कारवः आर्तभागः पप्रच्छ… कति ग्रहाः कत्यतिग्रहाः ? इति ।
अष्टौ ग्रहाः, अष्टौ अतिग्रहा इति । - बृहदारण्यकोपनिषत् ३-२-१

जनकराजस्य विद्वत्सभायाम् अनेके विद्वांसः आसन् । तेषाम् अन्यतमः जारत्कारवः
आर्तभागः । एषः याज्ञवल्क्यम् महर्षिम् पृष्टवान् 'कति ग्रहाः ? कति अतिग्रहाः ?' इति ।
प्रत्युत्तरत्वेन याज्ञवल्क्यः वदति “ अष्टौ ग्रहाः, अष्टौ अतिग्रहाः” इति ॥

अत्र ग्रहा नाम इन्द्रियाणि, अतिग्रहा नाम विषयाः इत्यर्थः । गृह्णन्ति, ग्राहयन्ति इति ग्रहाः ।
इन्द्रियाणि जीवम् आत्मसकाशम् आकर्षन्ति इति ग्रहाः उच्यन्ते । अस्मान् इन्द्रियाणि स्वसमीपं
गृहणन्ति खलु ? विषयास्तु इमानि ग्रहाख्यानि इन्द्रियाण्यपि स्वाभिमुखानि कुर्वन्ति इति अतिग्रहाः
उच्यन्ते । प्रबलानि इन्द्रियाणि अतिप्रबलाः विषयाः आकर्षन्ति इति प्रसिद्धमेव । अज्ञाः इन्द्रियाणां
विषयाणां च दासभूताः विषयभोगेषु मग्नः सन्तः अनर्थपरम्पराः अनुभवन्ति । विवेकिनस्तु इन्द्रियाख्यान्
ग्रहान् विषयाख्यान् अतिग्रहान् च स्वाधीनान् कृत्वा तेषामनधीनाः सन्तः धीरा विवेकिनः उच्यन्ते ॥