जीवन्तं मृतवन् मन्ये...

विकिसूक्तिः तः

सुभाषितम्

जीवन्तं मृतवन् मन्ये देहिनं धर्मवर्जितम् ।
मृतो धर्मेण संयुक्ते दीर्घजीवी न संशयः ॥




तात्पर्यम्

धर्मं परित्यक्तवान् जनः जीवन् अपि मृतः इव । दिवङ्गतः कश्चित् धर्मनिष्ठः यदि स्यात् तर्हि सः भवति दीर्घजीवी एव (यतः सः इहलोके चिरकीर्तिं परलोके शाश्वतं स्वर्गञ्च प्राप्स्यति) ।

"https://sa.wikiquote.org/w/index.php?title=जीवन्तं_मृतवन्_मन्ये...&oldid=14918" इत्यस्माद् प्रतिप्राप्तम्