जुष्टं यदा पश्यत्यन्यमीशम्...

विकिसूक्तिः तः

इदानीं वीतशोकोऽयम्

जुष्टं यदा पश्यत्यन्यमीशम् अस्य महिमानमिति वीतशोकः । - मुण्डकोपनिषत् ३-१-२

संसारिव्यतिरिक्तं योगिजुष्टम् ईश्वरम्, आत्मनः महिमानं च यदा
जिज्ञासुः पश्यति सः सद्य एव शोकरहितो भवति ।

जीवात्मनः जन्मजन्मान्तरेभ्यः शोकमोहाः प्रवाहवत् भवन्त्येव ।
अत एव अस्य संसारस्य शोकमोहसागरः इति नाम। अस्मिन् मग्नस्य
जीवात्मनः अस्मात् संसारात् तरणोपायः एव न दृश्यते । अस्मिन्
मन्त्रे तु संसारसागरतरणोपायमार्गः उपदिश्यते ॥

मुमुक्षुणा जीवत्वरहितस्य असंसारिणः ईश्वरस्य स्वरूपं विवेकेन
ज्ञातव्यम् । न हि ईश्वरो नाम अत्यन्तम् आत्मनो भिन्नः ।
स्वस्य स्वरूपमेव सः । एकस्यैव आत्मनः रूपद्वयं दृश्यते ।
अविद्याकल्पितोपाधिसम्बन्धात् दृश्यमानं जीवरूपम् एकम्,
उपाधिरहितं प्रत्यगात्मस्वरूपं च अपरम् । इदमेव च ईश्वरस्य
स्वरूपम्, इदमेव जीवस्य परमार्थस्वरूपम् । जन्ममरणराहित्यमेव
हि आत्मनः महिमा ! एतद्विदः शोकमोहसम्बन्धः सम्भवति किम् ?