जैनदर्शनसूक्तयः (आत्मबोधः)

विकिसूक्तिः तः

<poem> १. आत्मबोधशुचितीर्थमद्भुतं

स्नानमत्र कुरुतोत्तमं बुधाः । - पद्मनन्दिपञ्चविंशतिः १०.२८

२. व्यवहारे सुषुप्तो यः स जाग्रर्त्यात्मगोचरे,

जागर्ति व्यवहारेऽस्मिन् स सुप्तश्चात्मगोचरे । - समाधिशतकम् ६८

३. शिक्षावचः सहस्त्रैर्वा क्षीणपुण्ये

न धर्मधीः पात्रते तु स्फार्यते । - क्षत्रचूडामणिः २.५५, ८२