जैनदर्शनसूक्तयः (कविः)

विकिसूक्तिः तः

<poem> १. कविप्रकाशे खल एव हेतुर्यतश्च

तस्मिन् सति तत्प्रकर्षः । - ब० च० १.२१

२. त एव कवयो लोके त एव च विचक्षणाः,

येषां धर्मकथाङ्गत्वं भारती प्रतिपद्यते । - आदिपुराणम् १.६२

३. परे तुष्यन्तु वा मा वा कविः

स्वार्थं प्रतीहताम् । - आदिपुराणम् ७६

४. पीयूषनिष्यन्दिषु येषु हर्षः

केषां न धत्ते सुरसार्थ लीला । - ध० श० १.९

५. विचित्रालंकृती कर्तुं

दौर्गत्यं किं कवेः कृतीः । - आदिपुराणम् ४३.४२