जैनदर्शनसूक्तयः (कामः)

विकिसूक्तिः तः

<poem> १. कर्मणा कलितः कामी कुरुते

किं न दुष्करम् । - पाण्डवपुराणम् ७.२१८

२. कामग्रहगृहीतस्य का मर्यादा

क्रमोऽपि कः ? - हरिवंशुपुराणम्

३. को विवेको हि कामिनाम् । - पाण्डवपुराणम्८.७८

४. कामासक्तस्य नास्ति चिकीत्सितम् । - नीतिवाक्यामृतम् ३.१२

५. कामो हि कामं भ्रममातनोति । - पार्श्वनाथचरितम् पा० च० २.२२

६. ज्येष्ठो व्याधिसहस्त्राणां मदनो मतिसूदनः । - पाण्डवपुराणम् १२.३३

७. दिवा तपति तिग्मांशुर्मदनस्तु

दिवानिशम् । - पद्मपुराणम् १०६.१०१

८. न श्रृणोति स्मरग्रस्तो

न जिघ्रति न पश्यति । - पद्मपुराणम् ३९.२०८

९. मारसेवा न तृप्तये । - पाण्डवपुराणम् ८.९८

१०. स्त्रीचित्तहरणोद्युक्ताः

किं न कुर्वन्ति मानवाः ? - पद्मपुराणम् ४१.६२