जैनदर्शनसूक्तयः (देहः)

विकिसूक्तिः तः

<Poem> १. अन्नौषधादिसुखहेतु विशेषदानाद् दॆहं व्रतादिकरणे लभते समर्थम् । - श्रावकधर्मप्रदीपः २.५० पृ ५९ २. आनाय्ये नियतं देहे शोकस्यालम्बनं मुधा । - पद्मपुराणम् ११७.९ ३. देहोऽयमध्रुवः । - पद्मपुराणम् १३.७९ ४. शरद्धन इवाकस्माद् देहो नाशं प्रपद्यते । - पद्मपुराणम् १०.१५६ ५. विदिताशॆषशास्त्रोऽपि न जाग्रदपि मुच्यते । देहात्मदृष्टिर्ज्ञानात्मा सुप्तोन्मत्तोऽपि मुच्यते ॥ - समाधिशतकम् ९४