जैनदर्शनसूक्तयः (पुण्यम्)

विकिसूक्तिः तः

<Poem> १. एको विजयते शत्रुं पुण्येन परिपालितः । - पद्मपुराणम् ७४.५८ २. पुण्यं दरिद्रति जने धनदायि पुण्यम् । - आदिपुराणम् २८.२१८ ३. पुण्यं च दान –दम –संयम – सत्य –शौच-त्याग-क्षमादिशुभचेष्टिमूलमिष्टम् । - आदिपुराणम् १६.२७१ ४. पुण्यं जलस्थलभये शरणं तृतीयं पुण्यम् । - आदिपुराणम् २८.२१७ ५. पुण्यजिनेन्द्रपरिपूजनसाध्यमाद्यम् । - आदिपुराणम् २८.२१९ ६. पुण्यं परं शरणमापदि दुर्विलङ्घ्यम् । - आदिपुराणम् २८.२१८ ७. पुण्यं व्रतानुचरणादुपवासयोगात् । - आदिपुराणम् २८.२१९ ८. पुण्यं सुखार्थिनि जने सुखदायि रत्नम् । - आदिपुराणम् २८.२१८ ९. पुण्यं सुपात्रगतदानसमुत्थमन्यत् । - आदिपुराणम् २८.२१९ १०. पुण्यं स्थले जलमिवाशु नियन्ति तापम् । - आदिपुराणम् २८.२१७ ११. पुण्यस्य किमु दुष्करम् । - हरिवंशुपुराणम् ४६.१६ १२. पुण्यात्परं न खलु साधनमिष्टसिद्ध्यै । - आदिपुराणम् २८.२१५ १३. पुण्यात्परं न हि वशीकरणं जगत्याम् । - आदिपुराणम् २८.२१६ १४. पुनात्यात्मानं पूयतेऽनेनेति वा पुण्यम् । - सर्वार्थसिद्धिः ६.२ १५. पुण्यादृते नैव कदापि कस्यापि मनोरथातीत शतावाप्तिर्जायते । - वर्धमानचम्पूः १ १६. पुण्यानामेव सामर्थ्यमपाय परिरक्षणे । - हरिवंशुपुराणम् ४३.२२३ १७. पुण्यानुकूलितानां हि नैरन्तर्यं प्रजायते । - पद्मपुराणम् ६०.९६ १८. पुण्येन स्वेन रक्ष्यते । - पद्मपुराणम् ९९.८७ १९. पुण्ये बलीयसि किमस्ति जगत्यजेय्यम् । - आदिपुराणम् २८.२१४ २०. पुण्यैः किन्नु दुरासदम् । - आदिपुराणम् ९.१८७ २१. पुण्यविशेषश्चेन्न पतेत्किञ्चिन्ममोपरि । - श्रावकधर्मप्रदीपः २.६५ २२. शुभभावो भवेत्पुण्यं स्वर्गादिसुखसाधनम् । - समुद्रदत्तचरितम् २.८५ २३. शरण्यं सर्वजीवानां पुण्यमेव हि नापरम् । - क्षत्रचूडामणिः ७.३३ २४. सत्यं हि सौभाग्यनिधिर्जनेन नैवाप्यते पुण्याविभूत्यभावे । - वर्धमानचम्पूः २.३९ २५. विपच्च सम्पदे हि स्याद् भाग्यं यदि पचेलिमम् । - क्षत्रचूडामणिः ८.१९