जैनदर्शनसूक्तयः (प्रत्यक्षम्)

विकिसूक्तिः तः

१. आदर्शेऽर्पणीयः किं हस्तः कंकणलोकने । - पांडवपुराणम् ३.५७

२. प्रत्यक्षलक्षणं प्राहुः स्पष्टं साकारमञ्जसा । - न्या० वि० ३

३. प्रत्यक्षमेव प्रमाणम् अगौणत्वात् नानुमानं तद्विपर्ययात् । - न्यायकुमुदचन्द्रः ३

४. विशदं प्रत्यक्षम् । - परीक्षामुखम् २.३, न्यायदीपिका २