जैनदर्शनसूक्तयः (बुद्धिः)

विकिसूक्तिः तः

<Poem> १. तत्कार्यं बुद्धियुक्तेन परत्रेह च यत्सुखम् । - पद्मपुराणम् ७३.१०४ २. नूनं विनाशकाले हि नृणां ध्वान्तायते मतिः । - पद्मपुराणम् ७७.५२ ३. प्रकृत्या स्याद्कृत्ये धीर्दुशिक्षायां तु किम्पुनः । - क्षत्रचूडामणिः ३.५० ४. बुद्धिः कर्मानुसारिणी । - क्षत्रचूडामणिः १.१९ ५. भुङ्क्ते रागरसाविद्धो धिग् धियोऽनादिविप्लवम् । - उत्तरपुराणम् ४९.३३ ६. यत्रैवाहितधीः पुंसः श्रद्धा तत्रैव जायते, यत्रैव जायते श्रद्धा चित्तं तत्रैव लीयते । - स० श० ९५ ७. वरं बुद्धिर्न सा विद्या, विद्याया धीर्गरीयसी । - मदनपराजयः २.५