सामग्री पर जाएँ

जैनदर्शनसूक्तयः (महानिधिः)

विकिसूक्तिः तः

१. कस्य वा न कृतार्थत्वं सन्निधौ महतो निधेः । - आदिपुराणम् १.६०

२. एकेच्छानामतुच्छानां न ह्यन्यत्सङ्गमात्सुखम् ।- क्षत्रचूडामणिः ८.३३

३. दुर्जनैः खिद्यमानोऽपि महान्नो याति विक्रियाम् । - पांडवपुराणम् १७.१२३

४. न को वेत्ति महतां चरितं भुवि । - पांडवपुराणम् २.११३

५. नदी क्षोभात् किं क्षुभ्यति महार्णवः । - पांडवपुराणम् १०.६०

६. नादाने किन्तु दाने हि सतां तुष्यति मानसम् । - क्षत्रचूडामणिः ७.३०

७. निर्व्याजं सानुकम्पा हि सार्वाः सर्वेषु जन्तुषु । - क्षत्रचूडामणिः ६.८

८. पादाश्रितानामभिरक्षणं यन्तदेवकृत्यं न महोन्नतीनाम् । - पार्श्वनाथचरितम् २.६७

९. पावनानि हि जायन्ते स्थानान्यपि सदाश्रयात् । - क्षत्रचूडामणि ६.४

१०. प्रभूणां प्राभवं नाम प्रणतेष्वेकरूपता । - क्षत्रचूडामणिः ६.३९

११. प्रयाति दुरितं दूरं महापुरुषकीर्तनात् । - पद्मपुराणम् १.३०

१२. भुनक्ति न प्रेम महानुभावः । - पार्श्वनाथचरितम् २.६१

१३. महतां चित्रमीहितम् । - आदिपुराणम् २८.२७

१४. महतां ननु शैलीयं यदापदगततारणम् । - पद्मपुराणम् १७.३३४

१५. महतां पुरुषाणां चरितं पापनाशनम् । - पद्मपुराणम् ३.२९

१६. महतां हि मनोवृत्तिर्नोत्सेकपरिरम्भिणी । - आदिपुराणम् ३७.१३

१७. महात्मनामुन्नतगर्वशालिनो भवन्ति वश्याः पुरुषाः बलान्विताः । - पद्मपुराणम् ५०.५४

१८. महान् हि महतः सखा । - पाडवपुराणम् ७.२७१

१९. महामहाजनः प्रायो रतिवद्विरतो भृशम् । - पद्मपुराणम् ११३.४२

२०. मुखदानं हि मुख्यानां लघूनामभिषेचनम् । - क्षत्रचूडामणिः ७.९

२१. मुखमिष्टार्थसंसिद्धौ किं हि न स्यात्कृतात्मनाम् । - पार्श्वनाथचरितम् ११.८

२२. सज्जनानां हि शैलीयं सक्रमारम्भशालिता । - क्षत्रचूडामणि ८.३६

२३. सत्यं तावद्भवति महतां जन्म स्वान्योदयाय । - वर्धमानचम्पूः ७.११

२४. स्वस्थानेऽपि महाराजो न ह्यस्थानेऽपि रुट् सताम् । - क्षत्रचूडामणिः १०.५५