जैनदर्शनसूक्तयः (विवेकः)

विकिसूक्तिः तः

<Poem> १. अम्वामदृष्टपूर्वां च द्रष्टुं को नाम नेच्छति । - क्षत्रचूडामणिः ८.४९ २ किं वा विमोहाय विवेकिनां स्यात् । - ध० श० ४.६१ ३. कोऽनन्धो लङ्घयेद् गुरुम् । - क्षत्रचूडामणिः २.३९ ४. विवेकभूषितानां हि भूषा दोषाय कल्पते । - क्षत्रचूडामणिः ७.५ ५. विवेकसिद्धेः स भवत्युपायः श्रेयस्करी सा च भवद्वयेऽपि । - पार्श्वनाथचरितम् २.८५ ६ स्वकीयबलमज्ञाय संग्रामार्थन्तु यो नरः । गच्छत्यभिमुखो नाशं याति वह्नौ पतंगवत् । - मदनपराजयः १.५