जैनदर्शनसूक्तयः (सज्जनः)
<Poem> १. अतिनतिमापुः स्फुरत्प्रशंसाः । - जयो० म० १४.४४ २. अपत्यमिच्छन्ति तदेव साधवो नयेन जातेन पतन्ति पूर्वजाः । - ध० श० १८.१२ ३. अपकारिणि कारुण्यं यः करोति सः सज्जनः । - पद्मपुराणम् ३३.३०६ ४. अलीकादपि हि प्रायो दोषाद्विभ्यति सज्जनाः । - पद्मपुराणम् १७.३३९ ५. अविवेकजनानां हि सतां वाक्यमसङ्गतम् । - क्षत्रचूडामणिः ९.१७ ६. अहो तटस्था महतां सदैव । - जयो० म० १५.२ ७. आस्था सतां यशः काये, न ह्यस्थायिशरीरिके । - क्षत्रचूडामणि १.३७ ८. कर्मणा कलिताः सन्तः सन्तः सीदन्ति संसृतौ । - पाण्डवपुराणम् १२.१५८ ९. कं न कुर्वन्ति सज्जना दर्शनोत्सुकम् । - पद्मपुराणम् ८.४८ १०. गुणीनां गुणमादाय गुणी भवतु सज्जनः । - आदिपुराणम् ४३.२१ ११. गुणगृह्यो हि सज्जनः । - आदिपुराणम् १.३७ १२. नार्थिनो विमुखान्सन्तः कुर्वते तद्धि तद्व्रतम् । - आदिपुराणम् ४३.७२ १३. प्रत्यक्षे च परोक्षे च सन्तो हि समवृत्तिकाः । - क्षत्रचूडामणिः ७.३२ १४. प्रायः कल्पद्रुमस्येव परार्थं चेष्टितं सताम् । - उत्तरपुराणम् ६३.२९९ १५. न ह्ययोग्ये स्पृहा सताम् । - क्षत्रचूडमणिः २.७४ १६. लोकैषणाहीनान्तः करणवृत्तयः साधवः । - व० च० स्त० ६ पृ० १५२ १७. सन्तोऽवसरवादिनः । - दयोदयचम्पूः ४४ पृ ५७ १८. सतां हि कुलविधेयं यन्मनोहरभाषणम् । - पद्मपुराणम् ८.४ १९. सज्जनो हि मनोदुःखं निवेदितमुदस्यति । - हरिवंशुपुराणम् ४५.७९ २०. समर्थे कारणे नूनं सतां शीलं व्यवस्थितम् । - पाण्डवपुराणम्२५.१२४ २१. सर्वसत्वानुग्रहार्थो हि सतां प्रयासः । - स.सि. १.८ २२. स्खलति न स्थितितः सुजनः । - हरिवंशुपुराणम् ४९.३० २३. काष्ठजोऽपि दहत्यग्निः काष्ठं तं तत्र वर्धयेत् । - आदिपुराणम् भागः २, ४३.२९ पृ० ३५४