जैनदर्शनसूक्तयः (स्त्रियः)

विकिसूक्तिः तः

<Poem> १.इत्थमन्तर्दुरन्ताङ्गी बहिर्मधुरविभ्रमा । - यशस्तिलकचम्पू १.१२३ २.इह विकृतिमुपैति पण्डितोऽपि प्रणयवतीषु न किं जडस्वभावः । - ध० श० १३.३० ३.तज्जानीहि समस्तदोषविषमं स्त्रीरूपमेतद् ध्रुवम् । - पदिम्न्न्दपंचविंशतिः १.११७ ४.दोषाः किं तन्मयास्तासु दोषाणां किं समुद्भवः । - आदिपुराणम् ४३.१०९ ५.धर्मश्रीशमकीर्त्येककेतनं हि पतिव्रताः । - धर्मा० १२.२८ ६.न हि स्त्री प्रकृतिर्गुणज्ञा । - पार्श्वनाथचरितम् २.४१ ७.भोग्या हि बलिनां स्त्रियः । - दयोदयचम्पूः ३३.४१ ८.मायामयी हि नारीणां मनोवृत्तिः निसर्गतः । - क्षत्रचूडामणिः ७.४९ ९.योषितां भूषणं लज्जा श्लाघ्यं नान्यद्विभूषणम् । - उत्तरपुराणम् ५४.५४ १०.स्त्रीभिः स्त्रियो विश्वासमायान्ति । - मदनपराजयः १.८ ११.स्त्रीभोगे न सुखं चेतः संमोहाद् गात्रसादनात् । - आदिपुराणम् ११.१६५