ज्ञात्वा देवं सर्वपाशापहानिः...

विकिसूक्तिः तः

ज्ञात्वा देवं सर्वपाशापहानिः क्षीणैः क्लेशैः जन्ममृत्युप्रहाणिः । - श्वेताश्वतरोपनिषत् १-११

देवं ज्ञात्वा सर्वबन्धनानां नाशः, क्लेशानां नाशे सति जन्ममृत्युनाशः ।

पाशो नाम रज्जुः, गुणः बन्धनम् । अज्ञस्य जीवस्य सर्वतः शतं, सहस्रं
बन्धनानि विद्यन्ते । जन्मबन्धः, कर्मबन्धः, जराबन्धः, दुःखबन्धः रोगबन्धः,
मरणबन्धः इति सर्वमपि बन्धनमेव । नागपाशवत् एते बन्धाः उग्राः क्रूराश्च भवन्ति ॥

आत्मज्ञानमात्रेण हि एतेषां नागपाशानां ध्वंसः । आत्मज्ञानरूपया गारुडमन्त्रशक्त्या
जन्मजरादुःखमरणरूपाणां नागपाशानां मूलसहितो नाशो भवति । गाढान्धकारस्य
सूर्यप्रकाशः एक एव रामबाणः खलु ?

अविद्या अस्मिता रागः द्वेषः अभिनिवेशश्च इति पञ्चक्लेशाः मानवानां दुःखानि
कुर्वन्ति । आत्मज्ञानेन पाशनाशः, क्लेशनिवृत्तिः, जन्ममरणसंसारचक्रस्य
प्रध्वंसः । किं गरुडस्य सर्पेभ्यो भयमस्ति ? नैव । आत्मज्ञानिनः
पाशक्लेशादिसंसारभयं नैवास्ति ॥