टिटिटभन्यायः

विकिसूक्तिः तः

एकस्य समुद्रस्य तीरे वृक्षस्योपरि टिटिटभदम्पत्योः अण्डानि नीडे स्थाप्यन्ते स्म । परन्तु सर्वदा समुद्रेण तानि अण्डानि जले भज्यन्ते स्म । एतेन टिटिटभदम्पती नितरां दुः खितौ जातौ । ताभ्यां गरुडः निवेदितः । गरुडेन एतत् सर्वं महाविष्णवे निवेदितम् । महाविष्णोः अनुमत्या नारदमहर्षेः उपदेशेन च गरुडः स्वपक्षाभ्यां समुद्रस्य जलस्य शोषणं कर्तुम् आरब्धवान् । तेन भीतः समुद्रः पक्षिणाम् अण्डानि तेभ्यः प्रत्यर्पितवान् इति पञ्चतन्त्रे हितोपदेशे (२-९) च काचन कथा विद्यते । दृढनिश्चयेन किमपि असाध्यं नास्तीति असहायस्य भगवानेव साहाय्यं करोति इति च अनेन बोध्यते ।

"https://sa.wikiquote.org/w/index.php?title=टिटिटभन्यायः&oldid=9984" इत्यस्माद् प्रतिप्राप्तम्