डा आंबेड्करः

विकिसूक्तिः तः
सर्वासां प्रजानां धारणं यतः भवेत् सः एव धर्मो नाम ।

डा भीमराव रामजी आंबेड्करः (एप्रिल् १४, १८९१ - डिसेम्बर् ६, १९५६) भारतीयन्यायवेत्ता, राजनैतिक-सामाजिकनेता, बौद्धोधारकः च ।

अमृतवचनानि[सम्पाद्यताम्]

  • एषः देशः आ सहस्राधिकवर्षेभ्यः स्वस्य सांस्कृतिकसमरसतायाः विशिष्टतायाः च कारणतः एव सङ्घटितः अस्ति । एतत् सङ्कलनं सांस्कृतिकरूपेण सुग्रथितम् अस्ति । एतदाधारेण अहं वदामि - एतस्मात् प्रायद्वीपात् ऋते जगतः कस्मिंश्चिदपि देशे एतादृशी सांस्कृतिकसमरसता न दृश्यते इति । न केवलं भौगोलिकदृष्ट्या वयं सुसङ्घटिताः स्मः, अपि तु अस्माकं सांस्कृतिकैकता अपि अविच्छिन्ना अखण्डा च अस्ति एव, या च समग्रे देशे सर्वासु दिक्षु अभिव्याप्ता अस्ति । (रैटिंग्स् एण्ड् स्पीचस्, खण्ड - १, पृ.६)


  • राष्ट्रं सजीवात्मोपेतम् । एषः कश्चन आत्मिकः सिद्धान्तः । एतदर्थम् आवश्यकौ स्तः - स्मृतीनां बहुमूल्यसम्पत्तेः सामान्यः अधिकारः, वर्तमानकाले वास्तविकः सहमतिभावः च । सम्भूय जीवनयापने इच्छा, पूर्वजैः अस्मभ्यं समर्पिता आभिजात्यसम्पत्तिः सम्यक् रक्षणीया इति प्रबला इच्छा च अस्मासु भवेत् । एतत् नितान्तम् आवश्यकम् । (बाबासाहब व्यक्ति और जीवन - डा. कृष्णगोपाल, पृ.92)


  • सर्वासां प्रजानां धारणं यतः भवेत् सः एव धर्मो नाम । एतत् व्याख्यानं न मम, अपि तु सनातनधर्मस्य अग्रनायकस्य लोकमान्यतिलकस्य । अहम् एतत् व्याख्याम् अनुमन्ये । ...धर्मस्य मूल्याङ्कनं समाजस्य नैतिकताम् अवलम्बितवता सामाजिकेन मानदण्डेन करणीयम् । धर्मः जनकल्याणस्य मार्गः करणीयः चेत् अन्यः मानदण्डः उपयोगाय न भवेत् निश्चयेन ।

बाह्यशृङ्खला[सम्पाद्यताम्]

"https://sa.wikiquote.org/w/index.php?title=डा_आंबेड्करः&oldid=17652" इत्यस्माद् प्रतिप्राप्तम्