तं त्वा ‘औपनिषदं’ पुरुषं...

विकिसूक्तिः तः

अयमेव ’औपनिषदः’ आत्मा

तं त्वा ‘औपनिषदं’ पुरुषं पृच्छामि । - बृहदारण्यकोपनिषत् ३-९-२६

“तम् औपनिषदं पुरुषं ब्रूहि” इति अहं त्वां पृच्छामि ।

वेदान्तप्रतिपादितस्य आत्मनः औपनिषदः पुरुषः इति नामधेयम् ।
उपनिषत्सु प्रतिपादितः आत्मा औपनिषदः । उपनिषत्सु वेदान्तेष्वेव
प्रतिबोधितः आत्मा औपनिषदः पुरुषः । न कुत्राप्यन्यत्र अयमुपदिश्यते ।
पुराणेषु उपदिष्टाः देवताः पौराणिकदेवताः इति कथ्यन्ते । इन्द्र
चन्द्र मित्र वरुणार्यमाद्याः देवाः पौराणिकाः भवन्ति । नैते “औपनिषदः
पुरुषाः” भवन्ति । पौराणिकदेवताः अनात्मभूताः सोपाधिकाः संसारिस्वरूपा
एव । औपनिषदः पुरुषः पुनः ? अयं निरुपाधिकः पुरुषः परिपूर्णं परं ब्रह्म ।
अयमेव असंसारी आत्मा ॥

औपनिषदः पुरुषः निरुपाधिकः निर्विशेषः निरवयवः असंसारी प्रत्यगात्मा
परब्रह्मस्वरूपः । नामरूपक्रियासम्बन्धरहितः देशकालरहितः परिपूर्णः
प्रत्यगात्मैव औपनिषदः पुरुषः । औपनिषदात्मज्ञानादेव मुक्तिः ॥