तदा विद्वान् पुण्यपापे...

विकिसूक्तिः तः
Jump to navigation Jump to search

ज्ञानेन पुण्यपापयोः प्रध्वंसः !

तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति । - मुण्डकोपनिषत् ३-१-३

विद्वान् तदा पुण्यपापे विधूय निरञ्जनः परमं साम्यम् उपैति ।

जीवात्मनः पुण्यपापे बन्धकभूते । पत्नीं, पुत्रं, गृहं, धनं, धान्यं, कीर्तिं,
मानापमाने, अन्नं, जलं च यथाकथञ्चित् साधकः त्यजेत् । अपि तु
अहो ! पुण्यपापे न कथञ्चिदपि एषः त्यजेत् । अयं साधकः पुण्यपापे
स्वयं परिहरेत्, नैव तु ते पुण्यपापे इमं साधकं त्यजेताम् । पुण्यपापयोः
सम्बन्धः अस्य रक्तगतः । न हि । अस्थिगतोऽस्ति ! पुण्यपापाभ्यामेव
अस्य बन्धनप्राप्तिः । पुण्यपापविमोचनं न सुलभम् । न च सर्वथा
असाध्यमेव । अस्त्यत्र सुलभोपायः । स एव आत्मज्ञानाख्यो राजमार्गः।

विवेकविज्ञानेन आत्मनः नैजस्वरूपे अवगते सति पुण्यपापे विधूते भवतः ।
अविद्ययैव हि पुण्यपापाख्यसर्पपीडा । आत्मज्ञानाख्य गरुडदर्शनमात्रेणैव
पुण्यपापयोः परिहारः । पुण्यपापे भस्मीभवतः । पुण्यपापात्यय एव परमसाम्यस्य
स्थितिः जीवन्मुक्तिश्च ॥