तदिदमप्येतर्हि य एवं...

विकिसूक्तिः तः

तदिदमप्येतर्हि य एवं वेद ‘अहं ब्रह्मास्मि’ इति स इदं सर्वं भवति । - बृहदारण्यकोपनिषत् १-४-१०

तस्मात् अस्मिन्नपि काले इदानीमपि 'अहं ब्रह्मास्मि' इति यः विजानाति सः सर्वमिदं भूत्वा सर्वात्मा भवति ॥

'अहं ब्रह्मास्मि' इतिविज्ञानं तदा इदानीम्, तेषाम् एतेषाम्, तत्र अत्रापि, देवानां मानवानां राक्षसानां च समानमेव ।
तस्मात् अद्यापि यः कश्चिदपि ब्रह्मात्मज्ञानं लब्ध्वा सर्वात्मत्वं प्राप्नुयात् ॥

अस्मिन् कलियुगे, अस्मिन् काले, एतस्मिन् कलुषिते एकविंशतितमे शतमाने अस्मादृशानां दुर्बलानां जनानाम्
अत्युत्तम कालीनं तादृशं श्रेष्ठम् ब्रह्मात्मज्ञानं प्राप्यते वा ? इति अस्माकं मनसि संशयो जायेत खलु ? सत्यम्,
जायते । अपि तु न योक्तोऽयं संशयः । यस्मात् ब्रह्मणि वा ब्रह्मात्मज्ञाने वा तत्फले मोक्षे वा न कोऽपि देशकालभेदो
विद्यते । आत्मज्ञानस्य निर्विशेषस्य एकरूपत्वात् । तस्मात् वेदकालीनं शुद्धं ब्रह्मात्मज्ञानमेव इदानीमपि मानवानां
 सामान्यानाम् अस्माकम् नूनं प्राप्यते एव ॥

"https://sa.wikiquote.org/w/index.php?title=तदिदमप्येतर्हि_य_एवं...&oldid=16479" इत्यस्माद् प्रतिप्राप्तम्