तदेतत् सत्यम् । मन्त्रेषु...

विकिसूक्तिः तः

तदेतत् सत्यम् । मन्त्रेषु कर्माणि कवयो यान्यपश्यन्,
तानि त्रेतायां बहुधा सन्ततानि ॥ - मुण्डकोपनिषत् १-२-१

कर्म सत्यम्, कवयः मन्त्रेषु यानि कर्माणि अपश्यन्, तानि
कर्माणि त्रेतायां बहुधा सन्ततानि ।

वेदमन्त्रेषु कर्माणि विहितानि । अत्र कर्माणि इति प्रधानतया
अग्निहोत्रादीनि । एतेषु कर्मसु विधिवत् श्रद्धया अनुष्ठितेषु सत्सु
अवश्यमेव तानि तानि फलानि निश्चितानि भवन्त्येव ।
सम्यगनुष्ठितानां कर्मणां नियतानि फलानि भवन्त्येव इतिहेतुना
कर्माणि ‘सत्यम्’ इति उच्यन्ते । ‘एकान्तपुरुषार्थसाधनत्वात्’
इति भगवत्पादीयं शाङ्करं भाष्यम् ॥

वैदिकानि इमानि कर्माणि त्रेतायां विहितानि । त्रेतायाम् इति
ऋग्वेद, यजुर्वेद, सामवेदेषु सन्ततानि इत्यर्थः । ऋग्वेदस्य
होतरि, यजुर्वेदस्य अध्वर्यौ, तथा सामवेदस्य उद्गातरि वैदिकानि
कर्माणि सन्ततानि । अथवा ‘त्रेतायुगे’ इत्यपि अर्थो ग्राह्यः ।
कृतयुगे ध्यानम् , त्रेतायुगे वैदिकानि यज्ञादीनि कर्माणि, द्वापरयुगे
अर्चनम्, कलियुगे नामसंकीर्तनम् च सुप्रसिद्धं खलु ? सर्वथापि
तु कर्मणां फलानि नियतानि ॥