तद्यथा अहिनिर्ल्वयनी...
तद्यथा अहिनिर्ल्वयनी वल्मीके मृता प्रत्यस्ता शयीत, एवमेवेदं शरीरं शेते ।
अथायम् अशरीरो अमृतः प्राणो ब्रह्मैव तेज एव ॥ - बृहदारण्यकोपनिषत् ४-४-७
यथा सर्पत्वक् वल्मीके मृता त्यक्ता पतति, एवमेव ज्ञानिनः शरीरमपि तूष्णीं पतति ।
अथ अयम् अशरीर एव अमृत एव, प्राण एव, ब्रह्मैव एषः । तेज एव संवृत्तः ॥
ब्रह्मज्ञानिनः मनसि कामाभावात् तस्य विषयभोगेषु आसक्तिर्न विद्यते । ज्ञानिनः
शरीराभिमानाभावात् शरीरपोषणेच्छा न विद्यते । अनेन देहेन कार्यं प्रयोजनं नाम
मुक्तिरेव । तस्यां मुक्तौ प्राप्तायां सत्यां ज्ञानिनः अनेन देहेन प्राप्तव्यानि फलानि न सन्ति हि ॥
अस्यार्थस्य प्रकाशनाय सर्पत्वचः दृष्टान्तः । आत्मनः भिन्नायां त्वचि सर्पस्य अभिमानः
अस्ति किम् ? यथा सर्पः तां मुक्तां त्वचं तत्रैव विहाय तत्र निरभिमानः सन् वर्तते, एवमेव
ज्ञानी अपि देहाभिमानरहितः सानन्दः वर्तते । देहादीनां प्रारब्धं यथाकथञ्चित् वर्ततां नाम,
आत्मज्ञानी तु सदा आत्मानन्दनिष्ठो भवति ॥