तद्यथा शङ्कुना सर्वाणि पर्णानि...

विकिसूक्तिः तः

तद्यथा शङ्कुना सर्वाणि पर्णानि सन्तृण्णानि, एवम् ओङ्कारेण सर्वा वाक्
सन्तृण्णा । ओङ्कार एवेदं सर्वम् ॥ - छान्दोग्योपनिषत् २-२३-३

यथा तन्तुना सर्वाणि पर्णानि सन्तृण्णानि, संव्याप्तानि भवन्ति, एवमेव ओङ्कारेण
सर्वाः वाचः सन्तृण्णाः भवन्ति । इदं सर्वमपि ओङ्कार एव ॥

अश्वत्थपत्रेषु, न्यग्रोधपत्रेषु च अन्तः सूक्ष्माणि तन्तुरूपाणि विद्यन्ते खलु ? ते
तन्तवः सर्वाणि पत्राणि व्याप्नुवन्ति । पत्राणां पश्चात्, पुरस्तात्, वामतः, दक्षिणतश्च
तन्तव एव विद्यन्ते खलु ? एवमेव सर्वा अपि वाचः ओङ्कारः व्याप्नोति ॥

अक्षरवर्णमालायां विद्यमानानां सर्वेषामप्यक्षराणां व्यापकः ओङ्कारः । सकलस्यापि
वाक्प्रपञ्चस्य ओङ्कार एव आधारभूतः । अभिधानप्रपञ्चं सर्वमपि संव्याप्य विद्यमानम्
एकं श्रेष्ठमभिधानं नाम ओङ्कार एव । ओङ्कारे सकलोऽपि वाक्प्रपञ्चः अन्तर्भवति ।
वर्णमालायां विद्यमानानि सर्वाण्यपि अक्षराणि ओङ्कार एव । सर्वेषां वेदानाम्, उपनिषदां,
शास्त्राणां, पुराणानां च सार एव ओङ्कारः ॥