तन्मामवतु । तद्वक्तारमवतु...

विकिसूक्तिः तः
Jump to navigation Jump to search

तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् ॥ - तैत्तिरीयोपनिषत् १-१

तद् ब्रह्म माम् अवतु । तद् ब्रह्म वक्तारम् आचार्यम् अवतु । अवतु माम् । अवतु वक्तारम् ॥

पाठ प्रवचनस्य प्रारम्भे पठितव्योऽयं मन्त्रः । भगवति शिष्येण क्रियमाणा प्रार्थना इयम् । शिष्यो
हि स्वयं कृतार्थो बुभूषते । आचार्यस्तु स्वयं कृतार्थ एव । सद्गुरुभ्यः वेदान्तसन्देशान् श्रुत्वा
तेन आत्मज्ञानं लब्ध्वा मोक्षं प्रेप्सुः साधकः शिष्यः खलु ?

उपनिषत्सु प्रतिपादितस्य तत्त्वस्य ‘ब्रह्म’ इति नाम । ब्रह्म सर्वज्ञं सर्वशक्तं च इति वर्णयन्ति । इदं
ब्रह्म अस्माकं प्रत्यगात्मस्वरूपभूतम् । परब्रह्मस्वरूपजिज्ञासुं मां ब्रह्म पालयतु, ज्ञानिनं सद्गुरुं च
पालयतु इति शिष्यः प्रार्थयते । मम ज्ञानोदयपर्यन्तमपि आवाम् उभावपि अन्योन्यं सन्तोषिणौ यथा
स्याव तथा आवाम् उभावपि भगवान् परिपालयतु इत्यर्थः । ईश्वरानुग्रहादेव खलु मुमुक्षोः सद्गुरुलाभः,
सद्गुरुकृपया ब्रह्मज्ञानप्राप्तिश्च ॥