तप्तपरशुग्रहणन्यायः

विकिसूक्तिः तः

प्राचीनकाले अपराधस्य निर्धारणार्थं तप्तस्य परशोः ग्रहणं क्रियते स्म । यः अपराधं न कृतवान् तस्य हस्तो न ज्वलतीति यश्च अपराधी तस्य हस्तो ज्वलतीति च तस्मिन् काले विश्वास आसीत् । अयमपि दिव्यप्रकारः । यथा – स यदि तस्य कर्ता भवति तत एवानृतमात्मानं कुरुते सोऽनृताभिसन्धोऽनृतेन आत्मानमन्तर्धाय परशुं तप्तं प्रतिगृहणाति स दह्यते अथ हन्यते इति । (छान्दोग्योपनिषदि ६-१६-३)

"https://sa.wikiquote.org/w/index.php?title=तप्तपरशुग्रहणन्यायः&oldid=10001" इत्यस्माद् प्रतिप्राप्तम्