तमात्मस्थं येऽनुपश्यन्ति...

विकिसूक्तिः तः

तमात्मस्थं येऽनुपश्यन्ति धीराः । तेषां सुखं शाश्वतं नेतरेषाम् ॥ - श्वेताश्वतरोपनिषत् ६-१२

स्वस्मिन् एव स्थितम् आत्मानं ये अनुभवेन पश्यन्ति, तेषां धीराणामेव
शाश्वतं सुखं, शाश्वती शान्तिः, न तु इतरेषाम् ॥

प्रत्यगात्मा नाम प्रत्यक् आत्मा स्वस्मिन्नेव विद्यमानः आत्मा । स्वस्मिन्नेव
विद्यमानमपि आत्मानं वयं न जानीमः । सामान्यतः वयं सर्वेऽपि स्वस्मिन्
रक्तमांस-अस्थिमज्जादीनेव पश्यामः, शरीरेन्द्रियमनः प्राणादींश्च पश्यामः ।
नैव तु आत्मानं पश्यामः । चैतन्यस्वरूपः आत्मा तु असंसारी सन् स्वस्मिन् एव विद्यते ॥

एनम् आत्मानं चक्षुर्भ्यां द्र्ष्टुं न शक्यते । स्वस्मिन्नेव विद्यमानमपि आत्मानमेनम्
अज्ञानिनः न विजानीयुः । कथं तर्हि आत्मानं पश्येयुः साधकाः ? ‘अनुदर्शनेन’
इति अयं मन्त्रः उपदिशति । इन्द्रियैः प्रत्यक्षप्रमाणैः आत्मानं द्र्ष्टुं न शक्यते ।
अनुभवम् अनुसृत्य आत्मा द्र्ष्टव्यः । शास्त्रम् अनु, गुरूपदेशं च अनु (शास्त्राचार्योपदेशम्
अनुसृत्य) श्रवणं कृत्वा श्रवणानुगुण्येन तथैव आत्मानम् अनुभवे पश्येत् । स
एव धीरः । तस्यैव शाश्वतं सुखं लभ्यते ॥