तमेवैकं जानथ आत्मानम्...

विकिसूक्तिः तः
Jump to navigation Jump to search

मुक्तिसेतुः अयम् !

तमेवैकं जानथ आत्मानम्, अन्या वाचो विमुञ्चथ, अमृतस्यैष सेतुः । - मुण्डकोपनिषत् २-२-५

तमात्मानम् एकमेव जानथ, अन्याः वाचो विमुञ्चथ, एष एव अमृतस्य सेतुः ॥

एष मन्त्रः अध्यात्मसाधकानां पथ्यम् उपदिशति । आयुर्वेदशास्त्रे आरोग्यप्राप्त्यर्थं
पथ्यम् उपदिश्यते खलु ? पथ्यस्य द्वे मुखे, कर्तव्यं मुखम् एकम्, त्याज्यं मुखम्
अपरम् । एवमेव वेदान्ते अपि साधकानां मन्तव्यं त्यक्तव्यं च इति साधनद्वयम्
उपदिश्यते । ईदृशम् आध्यात्मिकं पथ्यम् अनुसरतां साधकानाम् आत्मज्ञानं सुनिश्चितं
नूनं जायते ॥

किं तत् पथ्यम् ? प्रथमतः आत्मा एव विज्ञातव्यः । अवस्थात्रयव्यापकम् अद्वितीयम्
आत्मानमेव साधकः अनुपश्येत् । आत्मन एव इदं विश्वं जातम् इत्येतत् विवेकेन
जानीयात् । द्वितीयतः सर्वान् अनात्मनः त्यजेत् । अपराविद्यासम्बद्धान् सर्वानपि
अनात्मविचारान् त्यजेत् । अनेन क्रमेण आत्मज्ञानोदयो भवति । आत्मविज्ञानात्
अमृतत्वं मोक्षः लभ्यते । एवम् अनात्मविषयचिन्तनत्यागपूर्वकम् आत्मज्ञानं
मुक्तिसेतुरिव भवति ॥