तयोः श्रेय आददानस्य...

विकिसूक्तिः तः

तयोः श्रेय आददानस्य साधु भवति । हीयते अर्थात् य उ प्रेयो वृणीते ॥ - काठकोपनिषत् १-२-१

तयोः मध्ये यः श्रेयः स्वीकरोति तस्य मोक्षरूपं सत्यं फलं लभ्यते, यस्तु प्रेयः अपेक्षते सः
मोक्षात् श्रेयसः अधः पतति ॥

श्रेयः, निः श्रेयसम्, मोक्षः, अमृतत्वम्, कैवल्यम् इति पर्यायपदानि । इदमेकमेव शाश्वतं फलम् ।
बुद्धिमता साधकेन अनित्यानि फलानि विहाय, नित्यं शाश्वतम् अजम् अजरम् अमृतम् अभयम्
अद्वितीयं च मोक्षफलमेव प्राप्तुं प्रयत्नः कर्तव्यः । मुमुक्षुसाधकः एक एव धीरः, एष एव च बुद्धिमान्,
विवेकी, पण्डितश्च । अयं हि आत्मज्ञानं लब्ध्वा तेन मोक्षमेव लब्ध्वा कृतार्थो भवति । जन्ममरणरूपात्
संसारचक्रात् आत्मानं विमोच्य कृतकृत्यो भवति अयं धीरो मुमुक्षुः ॥

मोक्षमार्गे प्रयत्नमेव अकृत्वा प्रेयोमार्गे एव निमग्नस्य अनित्यान्येव फलानि लभ्यन्ते । तुषान्येव
स्वीकुर्वतः तावतैव तुष्यतः अविवेकिनः सारतमाः तण्डुलाः लभ्यन्ते किम् ?

"https://sa.wikiquote.org/w/index.php?title=तयोः_श्रेय_आददानस्य...&oldid=16296" इत्यस्माद् प्रतिप्राप्तम्