तयोरन्यः पिप्पलं...

विकिसूक्तिः तः

तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्यो अभिचाकशीति । - मुण्डकोपनिषत् ३-१-१

जीवसाक्षिणोः मध्ये अन्यो जीवः कर्मफलं सम्यक् भुङ्क्ते, अन्यस्तु साक्षी ईश्वरः कर्मफलानि न
अश्नन् केवलं पश्यति ।

अस्माकं शरीरे द्वौ आत्मानौ भवतः, जीवात्मा परमात्मा चेति । उभावप्येतौ पक्षिद्वयरूपकेण अत्र
उपनिषदि उपदिष्टौ । एतौ उभौ अपि पक्षिणौ एकमेव शरीरवृक्षम् आश्रित्य सहैव तिष्ठतः । यद्यपि
एकस्मिन्नेव शरीरे उभावपि विद्येते, तथापि एकः आत्मा कर्माणि कुर्वन् तेषां फलानि अनुभवन्
नित्यसंसारी भवति, अयमेव कर्तृभोक्तृस्वरूपः जीवात्मा ॥

इतरस्तु न कान्यपि कर्माणि करोति, अत एव तस्य सुखदुःखे न सम्भवतः, जन्ममरणसंसारस्तु
नितरां सम्भवति । अयं साक्षिमात्रः सन् सर्वान् विकारान् निर्विकारः सन् अवभासते । सर्वसंसार
धर्मविलक्षणः अयं प्रत्यगात्मा । अयमेव असंसारी परमात्मा । उभावप्येतौ परस्परं विलक्षणौ ।
असंसारी प्रत्यगात्मा एव अहं इति यः धीरो जानाति स एव ब्रह्मवित् जीवन्मुक्तश्च ॥

"https://sa.wikiquote.org/w/index.php?title=तयोरन्यः_पिप्पलं...&oldid=16565" इत्यस्माद् प्रतिप्राप्तम्