ताँस्ते प्रेत्याभिगच्छन्ति...

विकिसूक्तिः तः

<poem> ताँस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥ - ईशावास्योपनिषत् ३

आत्महनः अज्ञाः मरणानन्तरं तं स्वर्गलोकं प्राप्नुवन्ति ।

वेदान्तानाम् अयं धीरः सन्देशः सामान्यलौकिकानाम् आश्चर्यम् उत्पादयति । अस्य मन्त्रस्य अर्थः सम्यक् न गृह्यते चेत् तदा अपार्थ एव भवति ॥

'आत्महनः स्वर्गलोकं गच्छन्ति' इत्युक्ते कोऽर्थः ? 'आत्महनो’ नाम आत्मानं ये घ्नन्ति ते इत्यर्थः । आत्मा नाम सच्चिदानन्दरूपः प्रत्यगात्मा । अस्य सम्यक् अज्ञानमेव हि अस्य हननम् । सर्वोऽपि जीवः परमार्थतः अमृत एव सन्नपि एवम् एनम् अविज्ञाय, शरीरमेव अहम् इति जानाति खलु, एतदेव आत्महननं नाम । आत्मानम् अविज्ञाय अविद्यया स्वर्गलोकं जिगमिषवः अज्ञाः आत्महनो न भवन्ति किम् ?

शरीरमेव आत्मत्वेन गृहीत्वा जन्मजरामरणादिविकाररहितम् निजम् आत्मानं विस्मृत्य अविज्ञाय, अविद्याकामकर्मसु ये निमग्नाः ते अज्ञानिनः आत्मघातकाः न भवन्ति किम् ?