तालसर्पन्यायः

विकिसूक्तिः तः

तालवृक्षस्य उपरि त्वक् कठिना सती ऊर्ध्वमुखे कण्टकवत् तीक्ष्णा भवति । यदि केनापि लोभेन कश्चन सर्पः तालवृक्षमधिरोढुं प्रयतेत् तर्हि शिघ्रमेव तस्य उदरं कण्टकाविद्धं भूत्वा भग्नं भवेत् । एवं कष्टपूर्णं कर्म यः कर्तुमिच्छति सः फलानि अप्राप्य स्वनाशमेव प्राप्नुयादिति अनेन ज्ञायते ।

"https://sa.wikiquote.org/w/index.php?title=तालसर्पन्यायः&oldid=10020" इत्यस्माद् प्रतिप्राप्तम्