ता एता देवताः सृष्टाः...

विकिसूक्तिः तः

ता एता देवताः सृष्टाः अस्मिन् महत्यर्णवे प्रापतन् । - ऎतरेयोपनिषत् १-२-१

परमात्मना सृष्टाः एते इन्द्रादयो देवाः अस्मिन् संसारसागरे निपतितवन्तः ।

इन्द्र आदित्य चन्द्रादयो देवाः मानवदृष्ट्या श्रेष्ठाः महान्त एव, तेषाम् अद्भुतानि शक्तिसामर्थ्यानि
विद्यन्ते । सत्यमेतत् । तावन्मात्रेण न ते देवाः परमेव ब्रह्म । एते देवाः परस्माद् ब्रह्मणो हि जाताः ।
जाता एते देवाः मानववदेव महासंसारिण एव ॥

एते देवा अपि संसारसागरे एव निमग्नाः परिच्छिन्नात्मान एव, न तु परं ब्रह्म । देवाधिदेवा अपि
संसारिण एव । अत्र संसारो नाम रागद्वेषौ, शोकमोहौ, इष्टानिष्टे, शोभनाशोभने, जन्ममरणे –
इत्यादिरूपं द्वन्द्वमेव; देवानामपि द्वन्द्वम् अस्त्येव ॥

देवत्वमात्रेण न तैः ब्रह्मज्ञानिभिर्भाव्यम् । न तैः ब्रह्मनिष्ठैर्भाव्यम् । देवाः अमरा एव भवन्ति न तु
अमृतात्मानः । आत्मज्ञानादेव अमृतत्वम् , आत्मज्ञानादेव च मुक्तिः लभ्यते, न तु अन्यथा ॥