तुङ्गं वेश्म...

विकिसूक्तिः तः

तुङ्गं वेश्म, सुता: सतामभिमता:, सङ्ख्यातिगा: सम्पद:।
कल्याणी दयिता, वयश्च नवमित्यज्ञानमूढो जन:॥
मत्त्वा विश्वमनश्वरं निविशते संसारकारागृहे
सन्दृश्य क्षणभङ्गुरं तदखिलं धन्यस्तु संन्यस्यति॥

"https://sa.wikiquote.org/w/index.php?title=तुङ्गं_वेश्म...&oldid=14447" इत्यस्माद् प्रतिप्राप्तम्