तुलायष्टिन्यायः (तुलादण्डयष्टिन्यायः)

विकिसूक्तिः तः

तुलायाः यष्टिः किंवा मानदण्डः उभयपार्श्वयोः मानपात्रं धारयति । यदा किमपि पात्रे न स्थाप्यते तदा तुलादण्डः समो भवति । यस्मिन् पत्रे किमपि स्थापितं चेत् तुलादण्डः तत्पार्श्वे अवनतो भवति । एवं दुर्जनोऽपि बाह्यपरिणामैः अवनतो भूत्वा समत्वं त्यजति इति अनेन बोध्यते । यथा – स्तोकेनोन्नतिमायाति स्तोकेनायात्यधो गतिम् । अहो सुसदृशी चेष्टा तुलाकोटेः खलस्य च ॥ हितोपदेशे १-१५४