तुल्योऽपराधे...

विकिसूक्तिः तः

सुभाषितम्

तुल्योऽपराधे स्वर्भानुभानुमन्तं चिरेण यत् ।
हिमांशुमाशु ग्रसते तन्म्रदिम्नः स्फुटं फलम् ॥

tulyo:'parādhe svarbhānubhānumantaṃ cireṇa yat ।
himāṃśumāśu grasate tanmradimnaḥ sphuṭaṃ phalam ।।

पदच्छेदः

तुल्यः, अपराधः, स्वर्भानुभानुमन्तं, चिरेण, यत्, हिमांशुम्, आशु, ग्रसते, तत्, म्रदिम्नः, स्फुटं, फलम् ।


तात्पर्यम्

सूर्यस्य चन्द्रमसः च समानः दोषः । अथापि राहुः सूर्यं बहुकालानन्तरं गृह्णाति । किन्तु चन्द्रमसं वारं वारं गृह्णाति । अत्र चन्द्रमसः कोमलता एव कारणं भवति ।

"https://sa.wikiquote.org/w/index.php?title=तुल्योऽपराधे...&oldid=16798" इत्यस्माद् प्रतिप्राप्तम्