तुष्यतुदुर्जनन्यायः

विकिसूक्तिः तः

‘दुर्जनः तुष्यतु’ इति कृतं व्यवहारम् आश्रित्य अयं न्यायः प्रवृत्तः । लोके दुर्जनात् बिभ्यत् सर्वोऽपि अनिच्छया अपि तस्य दुर्जनस्य मतमनुसरन् इव किञ्चित्कालं यावत् प्रवर्तते । शास्त्रे तथा पूर्वपक्षिणः युक्तेः प्रतियुक्तिं दातुं समर्थोऽपि सिद्धान्ती क्वचित् तन्मतम् अङ्गीकृतवानिव दर्शयति । परन्तु अन्ते योग्यां युक्तिं प्राप्य पूर्वपक्षस्य मतं निराकरोति । एवं तुष्यतु दुर्जन इति भावनया कथञ्चित् स्वीकृतस्य विषये अयं न्यायः प्रवर्तते ।

"https://sa.wikiquote.org/w/index.php?title=तुष्यतुदुर्जनन्यायः&oldid=10038" इत्यस्माद् प्रतिप्राप्तम्