तृणरज्जुन्यायः

विकिसूक्तिः तः

<poem> एकस्य तृणस्य कापि शक्तिः न भवति । परन्तु यदा अनेकानि तृणानि सम्भूय तृणरज्जुः निर्मीयते तदा तस्याः रज्ज्वाः महती शक्तिर्भवति यत् तया गजोऽपि बन्धुं शक्यते । संघटनशक्तेः महत्त्वम् अनेन द्योत्यते । यथा –

बहूनामल्पसाराणां समवायो दुरत्ययः । - भोजप्रबन्धे १४५
तृणैरावेष्ट्यते रज्जुर्यया नागोऽपि बध्यते । सुभाषितम्
"https://sa.wikiquote.org/w/index.php?title=तृणरज्जुन्यायः&oldid=14594" इत्यस्माद् प्रतिप्राप्तम्