तृणारणिमणिन्यायः

विकिसूक्तिः तः

तृणाविशेषात् अरणिमथनात् सूर्यकान्तमणेश्च अग्नेः उत्पत्तिः पूर्वकाले भवति स्म । यद्यपि अग्निजनने त्रीणां साम्यं भवेत् तथापि अग्निजननप्रक्रियायां वैषम्यमेवास्ति । यथा फूत्कारतः तृणविशेषात्, घर्षणतः अरणेः एवं सूर्यकिरणसंपर्केण मणितः अग्निः उत्पाद्यते स्म । त्रीण्यपि स्वतन्त्रकारणानि । तृणजन्यस्य अग्नेः तृणं कारणम् । अरणि जन्यस्य अग्नेः अरणिः कारणम् । एवं मणिजन्यस्य अग्नेः मणिः कारणम् इत्येवं कारणानि भिन्नानि । यथा – नतु वहिनत्ववच्छिन्नं प्रति तृणादेः कारणत्वम्, परस्परव्यभिचारात् एवं यत्र कार्यकारणाभावबाहुल्यं कार्यतावछेदकं कारणातावच्छेदकं च नाना, तत्र अस्य प्रवृत्तिः ॥ (लौकिकन्यायसाहस्रीतः १४५, १४६) २ शक्तिर्निपुणताभ्यासाः समुदिता दण्डचक्रादिन्यायेन परस्पर सापेक्षाः व्यस्ताः तृणारणिमणिन्यायेन प्रत्येकं कार्यजनकाः ॥ (काव्यप्रकाशस्य झळकीकरटीकातः २३)

"https://sa.wikiquote.org/w/index.php?title=तृणारणिमणिन्यायः&oldid=10163" इत्यस्माद् प्रतिप्राप्तम्