तेजोहीने महीपाले...

विकिसूक्तिः तः

सुभाषितम्

तेजोहीने महीपाले स्वे परे च विकुर्वते ।
निःशङ्को हि जनो धत्ते पदभस्मन्यनूष्मणि ॥

tejohīne mahīpāle sve pare ca vikurvate ।
niḥśaṅko hi jano dhatte padabhasmanyanūṣmaṇi ।।

पदच्छेदः

तेजोहीने, महीपाले, स्वे, परे, च, विकुर्वते, निःशङ्कः, हि, जनः, धत्ते, पदभस्मनि, अनूष्मणि ।


तात्पर्यम्

तेजोहीनः राजा भवति चेत्, सः स्वजनान् परजनान् च दूषयति । जनः निःशङ्कं तस्य उपरि पादं निददाति ।

"https://sa.wikiquote.org/w/index.php?title=तेजोहीने_महीपाले...&oldid=16804" इत्यस्माद् प्रतिप्राप्तम्