तेषामसौ विरजो ब्रह्मलोको...

विकिसूक्तिः तः
Jump to navigation Jump to search

तेषामसौ विरजो ब्रह्मलोको न येषु जिह्मम् अनृतं न माया चेति । - प्रश्नोपनिषत् १-१६

येषु उपासकेषु कुटिलता, अनृतम्, अनार्जवं च इति त्रयो दोषाः न विद्यन्ते, तेषामेव
रजोवर्जितब्रह्मलोकप्राप्तिर्भवति ॥

उपासकानां मरणानन्तरम् उपास्यदेवतालोकप्राप्तिर्भवति । अनन्तरं च तद्देवतासायुज्यमेव ते
प्राप्नुवन्ति । हिरण्यगर्भोपासकानां मरणानन्तरं ब्रह्मलोकप्राप्तिर्भवति ॥

तपः, इन्द्रियनिग्रहः, उपासननिष्ठा च इति गुणत्रयम् उपासकानां प्रधानम् । उपासने क्रियमाणेऽपि
अफलदायित्वे त्रयो दोषाः । ते तु जिह्मम्, अनृतम् , माया च इति । एते दोषाः त्याज्याः ॥
जिह्मं नाम कुटिलता, वक्रस्वभावः, व्यङ्यस्वभावः ।
अनृतं नाम मृषावचनम्, विनोदार्थं वा स्वार्थसम्पादनाय वा स्वप्रतिष्ठाप्रदर्शनार्थं वा मृषावचनम् ।
माया नाम मिथ्याचारः । मनसि अन्यथा बाहिरेवान्यथा । अनार्जवम् इति च एषा एव । ईदृशैः
त्रिभिर्दोषैः विर्जितानामेव ब्रह्मलोकप्राप्तिर्भवति ॥